SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रमणध आगमोद्वारककृतिसन्दोहे मसहस्त्री . ॥२३०॥ . श्रमणधर्मसहस्री (३७) धर्मों मङ्गलमुत्कृष्ट-मित्युक्तं दशकालिके । शय्यम्भवैः सूरिखस्तत्र धर्मो विचार्यते ॥१॥ मुक्तिनिक्रियाभ्यां स्या-दिति जैनागमे गिरा। तत्र ज्ञान क्रियाहेतुः, क्रियासाध्यं शिवं यतः ॥२॥ बन्धाभावानिर्जरायाः, स्यान्मोक्षस्तौ च सक्रिये। संवृतिनिर्जरा चेमे, विरतिर्विविधं तपः॥३॥ अत एव भिदा धर्मे, मताऽहिंसा यमस्तपः। धर्मोऽत्र श्रमणस्योक्त, इत्याहुवृत्तिकद्वरा ॥४॥ संवरो निजरा चास्मात्, स्वरूपं साधुरूपिणः। हिताप्तिस्थैर्यसन्धानान्यस्मान मङ्गलमित्यतः॥५॥ भावनानां क्रमस्तस्मात्तिसृणां मत आगमे । आश्रवे संवरे चैव, निर्जरायां च सत्तमैः ।।६।। नाज्ञातानां भवेद्रोधो, शानमादौततः क्रिया। यथा तथा न चेद् ध्याता, आश्रवः संवरः कुतः ॥७॥ अनिष्टानामाश्रवाणां, चेदनिष्टिः स्फुरेघृदि । चेतस्तदेषां रोधाय संवरोऽन्वेति सात्म्यतः॥८॥ यथार्या निर्जरा तेषां, गजस्नानसमा न या। ये नद्धा संवरेणैषां, यथाजौ वर्मभृद्भटः ॥९॥ अत एव मतं शास्त्रे, तपः स्थामं तु संवरात् । अहिंसाऽऽश्रवरोधेन, संवरात्मा तु संयमः ॥१०॥ निर्जरा तपसो रूपं, तत् त्रिक भावनामयम् । आत्मस्वरूपवेत्तृगा-मव्याबाधपदार्पकम् ॥११॥ अशुच्यन्ता भावनास्तु, स्युरमेध्योत्करेऽपि च । श्रद्धानेऽप्याश्रवादीनां, यतस्ता न बहिःश्रिताः ॥१२॥ अतो निषिद्धमाप्तेशे-रमेध्योत्करजीवगं । धर्मवृत्तं सानुबन्ध, यतो मुक्तौ न तन्मतिः॥१३।। अतो न सिद्धिपर्यन्तां, भावयेल्लोकसंस्थितिम् । बोधेदुर्लभतां मोक्ष-फलां धर्मस्य शस्यताम् ॥१४॥ तदेवं भावनापट्कं, नामध्ये वास्तवं भवेत् । देवे गुरौ तथा धर्मे, स्थास्वादि त्रयमिष्यताम् ॥१५॥ तीर्थकुनाममाहात्म्याजिनः ख्याति सभापुरः । क्षान्त्यादि दशधा धर्म, श्रोतृसत्त्वानुकम्पया ॥१६॥ भ्राम्यन्ति जन्तवो भीमे, भवाब्धौ कर्मनोदिताः। ॥२३०॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy