SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति दो ॥१३॥ . षष्ठयन्त तच्छद्धार्थे तच्छब्दे तु सर्व सुस्थमिति । शास्त्रस्य सम्यग्दर्शनस्य पृथगुक्तिस्तथा विप्रतिपत्तिनिरासाय 'न चक्षु' रित्यादि पृथक् सूत्रं, एवमेव ' मतिः स्मृति' रित्याद्यपि अनर्थान्तरसूत्रं, ततः स्मृत्यादीनां पृथक्मामाण्यनिरासः ॥ (४५) वाचकमुख्यस्य लक्ष्यते शैलीयं यत्- प्राधान्येन परामर्शे तच्छदस्य प्रयोगः, अन्यत्र त्वनुवृत्त्यैव परामर्शः, एवं च मोक्षमार्गे सम्यग्दर्शनस्य, न्यासे जीवादीनां, ज्ञाने मतेः, दर्शनविनाकृतज्ञानविषयापेक्षया निबन्धः प्रधानलक्षणापेक्षयोपयोगे इत्यादि स्वयमूयं सुधीभिः एवं च मतेरौ त्सर्गिकत्वं मतिरेवाप्तोपदेशेन विश्वस्तार्थग्राहिणी, 'श्रुत' मितिपूर्व श्रुतमुक्तं अन्यथा श्रुतं दयनेकद्वादशभेदमित्येवोच्येतेति, मतिश्रुतपूर्वकत्वेऽप्यवधेर्न तथोक्तिस्तत्र तथात्वा - भावादिति । (४८) दशवैकालिकमित्यत्र विकालशब्दः खण्डार्थः, खण्डश्च किञ्चिदूनतृतीयप्रहरलक्षणस्तेन निर्वृत्तत्वात् उद्धृत्य तदा स्थापितमिति, यद्वा रूढ्या काल: प्रथमचरमपौरुथ्यौ तेनास्याध्ययने संध्यावर्ज्य सर्वकाल पठनीयत्वात् ततो विकालेऽपि पठनीयतया स्थापितमिति, वैकालिकं द्वितीयतृतीयपौरुथ्यौ पठने कालोऽस्येति वैकालिकतेति ।। (४९) व्याख्यानतो विशेषप्रतिपत्तेर्न 'द्वचने के 'त्यादेः संशयग्रस्तता, अङ्गबाह्यस्य प्राक्कथनं तु मन्दमत्युपका रकादिप्राधान्यात् । साधु श्रावको भयपाठ्यत्वादध्ययनानामपि पृथक्सूत्रता, अत एव चतुर्विंशतिस्तवादीनां पृथक् (४६) श्रुतनिश्रिताया मतेः प्रपञ्चोऽयं सैव च श्रुते पूर्वे, इतरा तु तात्कालिककल्पनाभ्यासविनयवयः परिणामुख्यकेति तथा तथा विभज्यते ॥ (४७) यथा सम्यग्ज्ञानेन गतार्थत्वेऽपि दार्शनिकत्वात् | पृथक् उपधानानि सङ्गच्छन्ते । नामान्यनुक्त्वा भेदमात्र ताविक विमर्श: ॥१३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy