________________
तास्विक -
॥१२॥
इत्यविकत्थनः, यद्वा नात्मप्रशस्त्या श्रोतॄणां विनयभ्रंशकाः अनुद्धता इत्यर्थः ।।
(४२) 'गहियवके 'ति गृहीतवाक्य इति संस्कारे अधिगतसामाचारीकः, केवलसूत्रचारिण उन्मार्गत्वात्, अन्त्यत आदेशपञ्चशत्या अश्रद्धानं, ग्राह्यवाक्य इति संस्कारे तु तथा विधादेयनामवान् दुर्बोधतमस्यार्थस्य वा सुगमतयोपदेशकः ॥ (४३) देशकालादिज्ञाने उत्तरोत्तरज्ञानप्राबल्यार्थ समासः, श्रोत्रापेक्षा देशादयः, अत एव तत्प्रकृतिदेवताधिभु क्तिज्ञानमिति, अन्यत्राहुरेत एव ' के पुरिसे के नए 'त्ति, सूत्रकारा अपि पूर्व व्यापकं पश्चाद व्याप्यं पर्षदपेक्षया वालमध्यबुधानां बोधनीयता, अन्यथा दारुणविपाकमुन्मार्गनयनं स्वयमपि, देशाद्यानुकूल्येन वचनम् ॥
(४४) तन्निसर्गादधिगमाद्वा - अङ्गादिबोधरूपस्य स म्यग्ज्ञानस्य सामायिकादिचारित्रस्य च न निसर्गादुत्पत्तिः,
| किन्तु सम्यग्दर्शनस्यैव तथा सेतिज्ञापनाय तदिति, अनाभोगतो यथा यथाप्रवृत्तिकरणं तथैव स्वभावतोऽपूर्वानिवृत्तिकरणे इति । जीवाजीव० तन्न्यासः - भेदप्रभेदगुणपर्याययुक्तानां निक्षेपः कार्य इतिज्ञापनाय बुद्धिस्थपदार्थपरामर्शकस्तदिति, अत एव भाष्ये चतुष्टयं निक्षेपाणां साक्षादुक्तं, सिद्धान्तेऽपि व्यापकता तच्चतुष्टयस्य तेषामित्यर्थं तत्पदं, तेनाधिगमादिसूत्रेषु तदनुवृत्तिः सुलभेति । अस्ति च तदित्यव्ययं, तथा तेषामिति पृथक् पदं, एवं नैकदेशानुवृत्तिदूषणं, न च प्रमाणनयैरधिगम इत्यत्रानन्वयः, अत एव निर्देशादौ सदादौ च क्वचिज्जीवाधिकारः क्वचित् सम्यग्दर्शनाधिकारश्च भाष्योक्तो नासंगत इति, आहुश्च भाष्यकाराः न्यासभाष्ये - एवं सर्वेषामनादीनामादिमतां च जीवादीनामित्यादि निर्देशादिसूत्रभाष्ये - सर्वेषां भावानां जीवादीनामित्यादि, सदादिसूत्रे - सर्व भावानामित्यादि ि
विमर्शः
॥१२॥