SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगमो छारक कृति सन्दोहे १७९ ॥ सा द्रव्यान्त्यरूपा, अपायापगमादिगुणचतुष्टयी भावार्ह न्त्यरूपेति, 'समणे' त्यनेन सैव द्योत्यते । शमन इति संस्कारेणापायापगम । समना इति मनः पर्यायज्ञान्यादिपृष्टार्थोत्तरदानाय भावमनाराहित्ये द्रव्यमनोत्वात् समनाः, द्वादशपर्षदां मोक्षमार्गभणनात् समणः, इन्द्रादिमनसां पूजामाकर्षणाच्च सन्मना इति । सूत्रकारास्तु 'सह संमइयाए समणे'त्ति संस्कारं 'समणे' यस्याहुः । अणघातार्गत्यर्थ - त्वाद् गत्यर्थानां ज्ञानार्थत्वावाधाच्च । मतिशब्दोऽपि नात्र पारिभाषिकः, किन्तु सामान्यज्ञानार्थः । तेनाप्रतिपातिज्ञा नत्रयस्य मतिश्रुतावधिरूपस्य ग्रहणं । भगवतो ज्ञानत्रयधा रणप्रसिद्धिस्त्वेवं—–गर्भस्थोऽपि भगवान् चतुर्दशस्वप्नापहारज्ञातपुत्रापहारायाः शोकातिशयं बुद्धवान् जातं. त्रिशला दुःखपरिहाराय गर्भस्थोऽपि निश्चलतां कृत्वा विपर्यस्त मतित्वात् त्रिशलाया सराजकुलाया उद्वेगं शोकातिशयं दुःख प्राचुर्य च बुद्ध्वा देशेन चलनं च चकार । न च वाच्यं परस्परं विरुद्धमिदं यत्करुणया भक्त्या वा गर्भस्थस्य निश्चलत्वं चेति । यतो देवानन्दाकृतं वक्षः कुट्टनादि दृष्टा मातुर्वपुर्दुःखपरिहाराय निश्चलत्वस्य करणं, कृते च तस्मिन् सराजकुलाया विविधां वेदनां ज्ञात्वा चलनदुःखस्य च मातुर्मनस्यकिञ्चित्करतां सुखकारणतां च ज्ञात्वा तस्य करणादिति । जातोऽपि भगवान् सञ्ज्ञाशोधनादिजातस्य दुःखस्य परिहाराय तत्काले सञ्ज्ञादि कृतवान् । उपनयनावसरे सर्वविद्यापारगोऽपि मातापितृप्रभृतिकानां प्रमोदभरस्य जायमानस्याव्याघातायेन्द्रागमतत्संशयप्रश्नकालं मौनं दधार । गृहीतेपि श्रामण्ये भ्रान्तदेशान्तरदरिद्रतानिधये आगताय शक्रेण शाश्वतिकाचाररक्षणाय वामस्कन्धदेशावस्थितदेव दृष्यस्यार्ध समर्पयामास । न च 'जे उ दाणं पसंसंती' त्यादिना निरुद्धत्वात्तस्य स्खलनमिदमिति । तनिषेधस्य प्रकरणेनाधा श्रमणो भगवान् महावीर ॥ १७९ ॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy