________________
आगमो
द्धद्वारककृति
सन्दोहे
॥१५९॥
विधानेन प्रकरणस्य मर्यादाकालदर्शनार्थेन तु सकृदेवो - | च्चारस्तेषां यावत्कथिकं धरणं । अत एवावश्यके ' यावत्क - थिकानीति सकृद्गृहीतानि यावज्जीवमपि भावनीयानी 'ति । तद्वदेव च श्रावकप्रज्ञप्तावपि पालनकथनेन मर्यादाकाल एव । अत्र खरतरैः खररटनं कर्त्तुं न शक्यते । यथा प्रतिमोहनविवादे भावनाशब्दस्यानुष्ठानाभावार्थत्वोद्बोधनं कृतं, महाव्रतादीनामकरणं तु निह्नवतमैरपि न शक्यते वक्तुं जैने शासने यत इति । नन्वेवं प्रकरणान्तरत्वेन मर्यादार्थकत्वेन चैषां वाक्यानां विशेषः कः फलितः क्रियार्थात् खरतरोक्तादिति चेच्चमेव विचारय । विचारश्च द्वयोरर्थयोः समन्वयं कृत्वा चेच्चेतयसि तदा गमिष्यति नान्यथेति । तथास्तु क्रियार्थत्वे प्रतिनियतदिवसानुष्ठेयावित्यत्र ये केचिद्दिवसा नियमं प्रापिताः पौषधक्रियां प्रति स्युस्तेष्वेव तौ कर्त्तव्यौ, विधानस्योभयगामित्वाच्च तेष्व
करणे अन्यत्र च तयोः करणे प्रायश्चित्तहेतुभूत आज्ञाभङ्ग इति समन्वेमि । मर्यादार्थकत्वे तेषामेवं समन्वयः क्रियते प्रतिनियतो दिवसो यत्रेति विगृह्य दिनमर्यादा नियम्यते । तथा च न तौ दिवसादूनकालीनौ विधेयौ, न च द्वयादिदिवसान् समकमभिगृह्य बहुदिवसान् यावदुपधानादिषु पौषधानां निरन्तरं विधानेऽपि न तान् दिवसान् समकं गृहीत्वा पौषधोच्चारः कर्तुं शक्योऽनेन विधिना । अन्यच्च विधेरुभयार्थत्वाद्यथैकाधिकदिनानां पौषधा न सहोच्चार्यन्ते, तथैवैकस्मिन् दिन एकश एव पौषधस्य न भूयः स्वीकारः । यथा पौषधे नियतता दिवसस्य तथैवातिथिसंविभागव्रतेऽपीति । न तदप्यनेकाहस्कं, न चैकस्मिन्नहनि भूयः प्रतिपत्तव्यमिति । एवं पौर्वापर्यालोचनया समन्वेमीति । नन्वेवं द्विधाऽन्विते कः शास्त्राण्याचरणां चानुरुध्यते ? इति । द्वितीय एवान्व
पौषध
परामर्शः
॥ १५९ ॥