SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगमीद्धारककृति सन्दोहे ॥१३३॥ गुणास्तद्भक्षणदोषा लेशेनाऽपि, ग्रामाभावे सीमायाः मूलाभावे शाखायाश्चाभावात् । न चानागमिकमनुष्ठानं विहाय गतानुगतिकवतोऽपरेषामर्ह स्यात् । सति चैत्येतस्य तदवयवानां च द्रव्यत्वात् चैत्यद्रव् देवद्रव्यापरपर्यायस्य सहजसिद्धेः । अत एव चोपदेशपदादौ चैत्यद्रव्यं व्याख्यानयन्तः सूरयो योग्यातीतभेदेनेष्टिकादेश्चैत्यद्रव्यस्य द्वैविध्यमाहुः । तथा च यत्र यत्र चैत्यशब्दस्तत्र तत्र चैत्यद्रव्य सिद्धिरविनाभाविन्येव । न च वाच्यं तर्हीष्टिकादिरूपं चैत्यद्रव्यमस्तु तस्य शब्दतोऽसिद्धत्वेऽपि अर्थतः सिद्धत्वात् परं हिरण्यंग्रामगवादिरूपस्य देवद्रव्यस्य कथं सिद्धि: ? । आलयरूपत्वात् चैत्यस्य तत्समारचनोद्धाराद्यर्थं तत्पूजाद्यर्थं च तेषामपि हिरण्यादीनामावश्यकत्वात् | आगमानभिहितता तु श्रावकाचारोद्देशेन कस्याप्यागमस्याप्रणयनात् । साध्वा - चारतदुपदेशाङ्गीकारादेरुदेशेनैव तत्प्रणयनात् । अत एव च न क्वचिदप्यागमे श्रावकाणां नमस्कारगुणनं व्रतोच्चारदीक्षादिमहोत्सव विधिः आवश्यकविधिः अनशनविधिः इत्याद्यावश्यकीयविधीनां न्यायात्तविभवादिविधीनां चोल्लेखः । को वा किमाह, उपासकदंशाङ्गेऽभूदेव विस्तृतवाचनाकाले सः। यतोऽधुनातनकाले विद्यमानयोः समवायनन्द्यागमयोः उपासकानां चैत्यानां तपउपधानानां च वर्णनमुपासकदशाङ्गेऽस्तीति तल्लेखस्य 'उवा सगाणं चेइयाई' इत्यादिनोपलम्भात् । सति तत्र चैत्याद्यधिकारे तद्विधिद्रव्याद्यधिकारस्य सुलभतमत्वात्, न तत्र देवद्रव्याद्यधिकार दुर्लभता । निशीथचूर्णिव्यवहारबृहत्कल्पपञ्चकल्पभाष्यादिषु स्पष्ट एवाधुनाऽपि तद्द्द्रव्योल्लेखः । ततो नानभिहितता देवद्रव्यस्य । नन्वतिरिक्ता वाचोयुक्तियेत् - देवद्रव्यं, देवस्य वीतरागत्वेनार्थाद्यङ्गीकाराभावात् । सत्यं, विस्मृतं भवतां यदुत प्रथममेवोक्तं जिनौकस्त चैत्यद्रव्योसर्पणम् ॥१३३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy