SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सन्दोहे ॥ १२१ ॥ व्रतोच्चार एव तदतिचारा अन्यथा तु नेति वाच्यं । यतो न साचारप्रत्यया भवेत्, श्रावकाणां सामायिकपौपवते ऋते एकेन्द्रियविराधनाविरतेरभावात् ईर्यापथिक्यां तत्प्रतिक्रमात्, साधु श्रावकप्रतिमोद्वहनरहितानां साधूनां 'इगारसहि उवास - पडमाहिं वारसहिं भिक्खुपडिमाहिं' इतिपाठस्य अकृतसंलेखनानां एकादिन्यूनवतोच्चारवतां च श्रमणोपासकानां तत्तइतिचारपाठानुच्चारप्रसक्तेः । तत्त्वतः स्खलनासद्भावे । यथा प्रतिक्रमणं तथैव प्रतिषिद्धकरणकृत्याकरणविपरीतश्रद्धारूपण सद्भावेऽपि प्रतिक्रमणं । अत एव च गुप्तिधर्म - शुक्लध्यानमहाव्रतादिगतं युक्तियुक्तं भवेत् प्रतिक्रमणम्, अन्यथाsतिचाराणामेव तत्स्यात् नान्येषां । सति चैवं श्रावका णार्याप्रतिक्रान्तिरपि प्रतिषिद्धकरणादिविषयतयैषा युक्तिमत्येव, अन्यथा विंशशताधिक चतुर्विंशतिसाहस्यायुक्ता अष्टा- | इति ईर्यापथपरिशिष्टः ।। दशलक्षा या मिथ्यादुष्कृतानामीर्यापथिक्यां प्रोच्यन्ते वृथैव स्युस्ताः । अन्यच्च न सिद्धयेत् त्रैकालिकी प्रतिक्रान्तिरपि, अतीते प्रत्याख्यानाभावादतिचाराभावात् । अनागतीयोदन्तस्तु भावीति न तदतिचारसम्भवस्तथा च कथमिवातिचारमात्र एवेर्यापथिकीं वदतां निस्तरां विषमविपत्तेरिति विचार्य विचारदक्षैः । उच्चरिते च सामायिके तस्स भंते' इत्यादिना प्रतिक्रान्तमेवेति किमीर्यया कार्य ? । न च नूनं समुद्भूतं किञ्चित् गमनादिक्रियाणां भवन्मतेनाभावात्, चूर्णिकारमतेन भावेऽपि तत्प्रतिबद्धतयेर्याया अनभ्युपगमात् । साधुविधिमालम्ब्य भवता त्रिः सामायिकोच्चारः आगमादौ लेखलेशाभावेऽपि स्वधिया यदि विधीयते, तर्हि साधुवत् प्राणीर्या किं न सामायिकोच्चारात् प्रतिक्राम्यते ? श्राद्धस्य हि सर्वमप्यनुष्ठानमनगारानुष्ठानानुगमिति तूभयोस्सम्मतमेव । ईयपिथपरिशिष्टः ॥ १२१ ॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy