________________
आगमी
द्वारककृति
सन्दी
॥९७॥
सत्यं, शास्त्रे हि जैनानां यथाबद्धं तथावेद्यमिति नियम्यते न, अनुभावबन्धेन व्यभिचारः । तद्वदेवात्रानन्तसंसारपरिभ्रामककर्मोपार्जनं नियम्यते निह्नवानां । एतन्नियममनङ्गीकुर्वाणा अपि निरर्गलतयैवमुदाहरन्ति यदुत्सूत्रभाषणेनानन्तसंसारवृद्धिरिति । तथा चापत्तिर्न सम्पच्या sपलपनीया । नियमस्य तादृशोऽस्वीकारेऽनिष्टापादने तदुक्तिध्यमेव व्यञ्जयेत् । किञ्च यथा नोत्सर्गस्य बाधकोऽपवादस्तथा कस्यचित्तत्सम्पत्त्यभावो नापत्तेर्बाधिकः अपि च-यथा चिलातिपुत्रप्रदेशिनृपादयो हिंस्रादिस्वभावा अनि दुरन्तं भवं भ्रान्ता इति किं हिंसादीनां तथा पादकत्वं न नियम्यं ? न वा प्रज्ञापनीयं १ । परमेतावांस्तु विशेषः - यथान्यजीवहिंसाया दुरन्तत्वेपि ऋषिहिंसायास्तादृशी दुरन्तता यथा बोधेर्लब्धस्य नाशेन भवान्तरे च दुर्लभत्वेनानन्तसंसारपरिभ्रमणस्यापादिका, तथा प्रवचना
।
पलाप्युत्सूत्रभाषकाणां गम्येतेति ।
ननु 'इच्छा छन्दुति एगट्टेति वचनाद्यथाछन्दानां नियतोत्सूत्रभाषकता, यथाछन्दाश्व निरयावल्युक्ताः कालीदेव्यादयस्ताचैकावतारिण्य इति स्पष्टतया निर्विशेषं सूत्रादेशस्तत्कथं नामोत्सूत्र भाषकाणामनन्तसंसारार्जकत्वं नियम्यते ?
सत्यं यथा हि पार्श्वस्थादयो गुरुषु परिभा पिता नियमिताश्च पृथक् पृथग्व्यक्तिरूपेण तथा न तत्रा भिप्रेतं, एकस्या अपि व्यक्तेः पार्श्वस्थादिपञ्चकतया वर्ण नात् । किश्च - श्रीभगवतीदशमचतुर्थोद्देशादौ श्रावकाणामपि पार्श्वस्थादित्वेन वर्णनं दृश्यते । अन्यच्च तत्र तत्र पार्श्व - स्थत्वादिभिः पार्श्वस्थत्वादितया विहारोपि पृथग्निर्दिश्यते । तद्यथाछन्दत्वेन नोत्सूत्रभाषकाणां संसारानन्स्ये बाधो न कश्चिदपीति ।
ननु यद्युत्सूत्ररूपकाणां मिथ्यात्वानन्तानुबन्ध्युदयो
उत्सूत्र
भाषण
विचार:
॥९७॥