________________
श्रीआचाराङ्गवृत्तिः
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ | उद्देशः६
(शी०)
॥३४०॥
से मिक्खू वा० से जं पुण जाणिज्जा-रसेसिणो बहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तजहा-कुकुडजाइयं वा
सूयरजाइयं वा अग्गपिंडंसि वा वायसा संथडा संनिवइया पेहाए सइ परकमे संजया नो उज्जुयं गच्छिज्जा ।। (सू० ३१) । __स भिक्षुर्भिक्षार्थ प्रविष्टः सन् पदि पुनरेवं विजानीयात् , तद्यथा-बहवः 'प्राणाः' प्राणिनः रस्यते-आस्वाद्यत इति रसस्तमेष्टं शीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः, ते तदर्थिनः सन्तः पश्चाद् ग्रासार्थ क्वचिद्रध्यादौ संनिपतितास्तांश्चाहारार्थ संस्कृ(स्तृ)तान्-धनान् संनिपतितान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्धः, तांश्च प्राणिनः स्वनामग्राह-|| माह-कुक्कुटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, सूकरजातिकमित्यनेन च चतुष्पदजातिरिति, 'अग्रपिण्डे वा' काकपिण्ड्यां वा बहिः क्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च दृष्ट्वाऽग्रतः, ततः सति पराक्रमें-अन्यस्मिन् मार्गान्तरे 'संयतः' सम्यगुपयुक्तः संयतामन्त्रणं वा ऋजुस्तदभिमुखं न गच्छेद् , यतस्तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानां वधोऽपि स्यादिति ॥ साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह
से मिक्खू वा २ जाव नो गाहावइकुलस्स वा दुवारसाहं अवलंबिय २ चिट्ठिज्जा, नो गा० दगच्छणमत्तए चिट्ठिज्जा, नो गा० चंदणिउयए चिट्ठिज्जा, नो गा० सिणाणस्स वा वञ्चस्स वा संलोए सपडिदुवारे चिट्ठिज्जा, नो० आलोयं वा थिग्गलं वा संधिं वा दगभवणं वा वाहाओ पगिज्झिय २ अंगुलियाए वा उद्दिसिय २ उण्णमिय २ अवनमिय २ निझाइज्जा, नो गाहावइअंगुलियाए उद्दिसिय २ जाइज्जा, नो गा. अंगुलिए चालिय २ जाइज्जा, नो गा० अ० तब्जिय २
॥३४॥