SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ जाइजा, नो गा० अं० उक्खुलंपिय [उक्खलुंदिय ] २ जाइजा, नो गाहावई वंदिय २ जाइज्जा नो वयणं फरुसं वइज्जा ॥ (सू० ३२) स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात्, तद्यथा-नो गृहपतिकुलस्य द्वारशाखाम् 'अवलम्ब्यावलम्ब्ब' पौनःपुन्येन भृशं वाऽवलम्ब्य तिष्ठेद् , यतः सा जीर्णत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत् ततश्च संयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके' उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान तिष्ठेत् , तथा 'चंदणिउदय'त्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद् , दोषः पूर्वोक्त एव, तथा स्नानवर्चःसंलोके तत्प्रतिद्वारं वा न तिष्ठेत् , एतदुक्तं भवतियत्र स्थितैः स्नानवर्चःक्रिये कुर्वन् गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोषश्चात्र दर्शनाशङ्कया निःशङ्कतक्रियाया अभावेन निरोधप्रद्वेषसम्भव इति, तथा नैव गृहपतिकुलस्य 'आलोकम्' आलोकस्थान-गवाक्षादिक, 'थिग्गलं'ति प्रदेशपतितसंस्कृतं, तथा 'संधि'त्ति चौरखातं भित्तिसन्धि वा, तथा 'उदकभवनम्' उदकगृहं, सर्वाण्यप्येतानि भुजां 'प्रगृह्य प्रगह्य' पौनःपुन्येन प्रसार्य तथाऽङ्गुल्योद्दिश्य तथा कायमवनम्योन्नम्य च न निध्यापयेत्-न प्रलोकयेन्नाप्यन्यस्मै प्रदर्श-18 येत्, सर्वत्र द्विवचनमादरख्यापनार्थ, तत्र हि हृतनष्टादौ शङ्कोत्पद्यत इति ॥अपि च स भिक्षुर्गहपतिकुलं प्रविष्टः सन्नैव गृहपतिमडल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्य तथा कण्डूयनं कृत्वा तथा गृहपति 'वन्दित्वा' वाग्भिः स्तुत्वा प्रशस्य नो याचेत, अदत्ते च नैव तद्गृहपति परुष वदेत् , तद्यथा-यक्षस्त्वं परगृहं रक्षसि, कुतस्ते 94545455ॐॐॐA
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy