________________
लोचनां दत्त्वा भुञ्जानानामयं विधिः, तद्यथा-नो आत्मन इत्यादि, सुगममिति ॥ इहानन्तरसूत्रे बहिरालोकस्थान निषिद्धं, साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह
से भिक्खू वा से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविढे पेहाए नो ते उवाइकम्म पविसिज्ज वा ओभासिज वा, से तमायाय एगतमवक्कमिज्जा २ अणावायमसंलोए चिट्ठिज्जा, अह पुणेवं जाणिज्जा-पडिसेहिए वा दिने वा, तओ तंमि नियत्तिए संजयामेव पविसिज वा ओभासिज्ज वा एयं० सामग्गियं० (सू० ३०)
॥२-१-१-५ ॥ पिण्डैषणायां पञ्चम उद्देशकः ॥ स भिक्षुर्भिक्षार्थ ग्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात् , तद्यथा-अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः, 'तं च | पूर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत् , नापि तत्स्थ एव 'अवभाषेत' दातारं याचेत् , अपि च-स तम् 'आदाय' अवगम्यैकान्तमपक्रामेद् अनापातासंलोके च तिष्ठेत् तावद्यावच्छ्रमणादिके प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन् 'निवृत्ते' गृहान्निर्गते सति ततः संयत एवं प्रविशेदवभाषेत वेति, एवं च |तस्य भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्य पञ्चमोद्देशकः समाप्तः॥
I
__ पञ्चमोद्देशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके श्रमणाद्यन्तरायभयागृहप्रवेशो नि[षिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह