________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥३२९॥
श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्देशः२
तेषां मध्येऽन्यतमो दोषः स्यात् , तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं वा अनिसृष्टम (ष्टं वाऽ)भ्याहृतमि( तं वेति,) एतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्वमभिसंधार- येत्-यथाऽयं यतिर्मप्रकरणमुद्दिश्यहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्यादिति, यदिवा यो हि लोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति ॥ किञ्च-सङ्खडिनिमित्तमागच्छतः साधूनुद्दिश्य गृहस्थ एवंभूता वसतीः कुर्यादित्याह
अस्संजए भिक्खुपडियाए खुड़ियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओ खुडियदुवारियाओ कुजा, समाओ सिज्जाओ विसमाओ कुजा, विसमाओ सिजाओ समाओ कुजा, पवायाओ सिज्जाओ निवायाओ कुजा, निवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बहिं वा उवस्सयस्स हरियाणि छिंदिय छिंदिय दालिय दालिय संथारगं संथारिजा, एस विलुंगयामो सिज्जाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडि वा संखडिं संखडिपडियाए नो अभिसं
धारिजा गमणाए, एयं खलु तस्स भिक्खुस्स जाव सया जए (सू० १३) तिबेमि ।। पिण्डैषणाध्ययने द्वितीयः १-१-२ 'असंयतः' गृहस्थः स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वाराः-सङ्कटद्वाराः सत्यस्ता महाद्वाराः कुर्यात् , व्यत्ययं वा कार्यापेक्षया कुर्यात् , तथा समाः शय्या-वसतयो विषमाः सागारिकापातभयात् कुर्यात् , साधुसमाधानार्थ वा व्यत्ययं कुर्यात्, तथा प्रवाताः शय्याः शीतभयान्निवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्यय विदध्यादिति, तथाऽन्तः-मध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात्, संस्ता
॥३२९॥