________________
- मिचं वा अच्छिजं वा अणिसिह वा अभिहडं वा-आहट्ट दिजमाणं भुंजिज्जा ॥
स भिक्षुः 'परं' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्ड्यन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्घडिस्तां ज्ञात्वा तत्प्रतिज्ञया । 'नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् ॥ यदि पुनमेषु परिपाच्या पूर्वप्रवृत्तं गमनं तत्र च सङ्कडिं परिज्ञाय यद्विधेयं तद्दर्शयितुमाह-. ___ स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि संखडिं जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भार्ग गच्छेत् , अथ प्रतीचीनां
जानीयात्ततः प्राचीनं गच्छेत् , एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् -'अनाद्रियमाणः' सङ्घडिमनादर|यन्नित्यर्थः, एतदुक्तं भवति-यत्रैवासौ सङ्खडिः स्यात्तत्र न गन्तव्यमिति, व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात् , करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेटं, कर्बट-कुनगरं, सर्वतोऽर्द्धयोजनासरेण स्थितमाम मडम्बं पत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरः-ताम्रादेरुत्पत्तिस्थानं, द्रोणमुखं यस्य जलस्थलपथावुभावपि, निगमा-वणिजस्तेषां स्थानं नैगमम् , आश्रमं यत्तीर्थस्थानं, राज|धानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र प्रभूतानां भाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्खडिप्रतिज्ञया न गमनम्. 'अभिसंधारयेत्' न पर्यालोचयेत्, किमिति ?, यतः केवली ब्रूयात् 'आदानमेतत्' कर्मोपादान|मेतदिति, पाठान्तरं वा 'आययणमेय'ति आयतनं-स्थानमेतदोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति शादर्शयति-'संखडिं संखडिपडियाए'त्ति, या या सङ्कडिस्तां ताम् 'अभिसन्धारयतः' तनतिज्ञया गच्छतः साधोरवश्यमे