________________
श्रीआचाराङ्गवृत्तिः (शी०)
AAA
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः२
॥३२८॥
KARKAKKARANA
वस्मै दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गृह्णीयात्, अथापि सर्वस्मै न दीयते तथा- |ऽपि जनाकीर्णमिति मन्यमान एवंभूते सङ्खडिविशेषे न प्रविशेदिति ॥ एतदेव सविशेषणं ग्राह्यमाह___ अथ पुनरेवंभूतमाहारादिकं जानीयात्, तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम्, 'अथ' अनन्तरं तत्र स्वत एव तान् गृहस्थान् भुञ्जानान् 'प्रेक्ष्य' दृष्ट्वाऽऽहारार्थी तत्र यायात्, तान् गृहस्थान् स्वनामग्राहमाह, तद्यथा-गृहपतिभार्यादिकं भुञ्जानं पूर्वमेव 'आलोकयेत् पश्येत् प्रभुं प्रभुसंदिष्टं वा ब्रूयात् , तद्यथा-आयुष्मति ! भगिनि! इत्यादि, दास्यसि मह्यमन्यतरदोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र च जनसङ्कलत्वात्सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत्, अयाचितो वा गृहस्थो दद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ अन्यग्रामचिन्तामधिकृत्याह
से भिक्खू वा २ परं अद्धजोयणमेराए संखडिं नचा संखडिपडियाए नो अभिसंधारिजा गमणाए ॥ से भिक्खू वा २ पाईणं संखडि नच्चा पडीणं गच्छे अणाढायमाणे, पडीणं संखडि नच्चा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडि नचा उदीणं गच्छे अणाढायमाणे, उईणं संखडि नचा दाहिणं गच्छे अणाढायमाणे, जत्थेव सा संखडि सिया, तंजहागामंसि वा नगरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसि वा संनिवेसंसि वा जाव रायहाणिंसि वा संखडि संखडिपडियाए नो अभिसंधारिजा गमणाए, केवली बूया-आयाणमेय संखडिं संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पा
A
॥३२८॥
A5%25*