________________
FRISSAIRAALAAAAASLASH
- अणासेवियं अफासुयं अणेसणिज्जं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं बहियानीहडं अत्तढियं
परिभुत्तं आसेवियं फासुयं एसणिजं जाव पडिग्गाहिजा ।। (सू० ८) स भिक्षुर्यत्पुनरशनादि जानीयात्, किंभूतमिति दर्शयति-बहून् श्रमणब्राह्मणातिथिकृपणवणीमकान् समुद्दिश्य श्रमणाद्यर्थमिति यावत्, प्राणादींश्च समारभ्य यावदाहृत्य कश्चिद् गृहस्थो ददाति, तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिर्निर्गतमनात्मीकृतमपरिभक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ इयं च "जावंतिया भिक्ख"त्ति, एतव्यत्ययेन ग्राह्यमाह-अथशब्दः पूर्वापेक्षी पुनःशब्दो विशेषणार्थः, अथ स भिक्षुः पुनरेवं जा-15 नीयात्, तद्यथा-'पुरुषान्तरकृतम्' अन्याथै कृतं बहिर्निगतमात्मीकृतं परिभुक्तमासेवितं प्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णीयात्, इदमुक्तं भवति-अविशोधिकोटियेथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कल्पत इति ॥ विशुद्धिकोटिमधिकृत्याह
से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए पविसिउकामे से जाई पुण कुलाई जाणिजा-इमेसु खलु कुलेसु निइए पिंडे दिज्जइ अग्गपिंडे दिजइ नियए भाए दिजइ नियए अवडभाए दिज्जइ, तहप्पगाराई कुलाई निइयाई निइउमाणाई नो भत्ताए वा पाणाए वा पविसिज वा निक्खमिज वा ।। एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्व?हिं समिए सहिए सया जए (सू० ९) त्तिबेमि ।। पिण्डैषणाध्ययन आद्योदेशकः ॥ १-१-१॥ १ यावत्यो भिक्षाः.