SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३२५ ॥ र्गतमनिर्गतं वा, तथा तेनैव दात्रा स्वीकृतमस्वीकृतं वा, तथा तेनैव दात्रा तस्माद्वहुपरिभुक्तमपरिभुक्तं वा, तथा स्तोकमास्वादितमनास्वादितं वा तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयादिति । एतच्च प्रथमच - रमतीर्थकृतोरकल्पनीयं, मध्यमतीर्थकराणां चान्यस्य कृतमन्यस्य कल्पत इति । एवं बहून् साधर्मिकान् समुद्दिश्य प्राग्वचर्चः । तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योजनीयमिति ॥ पुनरपि प्रकारान्तरेणाविशुद्धिकोटिमधिकृत्याह - से भिक्खू वा० जाव समाणे से जं पुण जाणिन्ना असणं ४ बहवे समणा माहणा अतिहि किवणवणीमए पगणिय २ समुद्दिस्स पाणाई वा ४ समारब्भ जाव नो पडिग्गाहिज्जा ।। ( सू० ७ ) स भावभिक्षुर्यावद्गृहपतिकुलं प्रविष्टस्तद्यत्पुनरेवंभूतमशनादि जानीयात्, तद्यथा - बहून् श्रमणानुद्दिश्य, ते च पञ्चविधाः-निर्ग्रन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणान् भोजन कालोपस्थाय्यपूर्वो वाऽतिथिस्तानिति कृपणादरिद्रास्तान् वणीमका - बन्दिप्रायास्तानपि श्रमणादीन् बहून् 'उद्दिश्य' प्रगणय्य प्रगणय्योद्दिशति, तद्यथा - द्वित्राः श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन् परिसङ्ख्यातानुद्दिश्य, तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमना सेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानो लाभे सति न प्रतिगृह्णीयादिति ॥ विशोधिकोटिमधिकृत्याह सेभिक्खू वा भिक्खुणी वा० जाव पविट्ठे समाणे से जं पुण जाणिज्जा असणं वा ४ बहवे समणा माहणा अतिहिं किवणवणीमए समुद्दिस्स जाव चेएइ तं तप्पगारं असणं वा ४ अपुरिसंतरकडं वा अबहियानीहडं अणत्तट्ठियं अपरिभुत्तं श्रुतस्कं० २ चूलिका १ पिण्डैष ०१ उद्देशः १ ॥ ३२५ ॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy