SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ जंति मन्नमाणे लाभे संते नो पडिग्गाहिजा ।। से भिक्खू वा० जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिन्नाओ वुच्छिन्नाओ तरुणियं वा छिवाडिं अभिकंतं भजियं पेहाए फासुयं एसणिज्जति मन्नमाणे लाभे संते पडिग्गाहिज्जा ॥ (सू० २) स भावभिक्षुर्गृहपतिकुल प्रविष्टः सन् याः पुनः “औषधीः" शालिबीजादिकाः एवंभूता जानीयात् , तद्यथा-कसिणाओ'त्ति 'कृत्स्नाः' सम्पूर्णा अनुपहताः, अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिका, तत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सचित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेष्वाद्यं भङ्गात्रयमुपास्तं, 'सासियाओ'त्ति, जीवस्य स्वाम्-आत्मीयामुसत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः, अविनष्टयोनय इत्यर्थः, आगमे च कासाश्चिदौषधीनामविनष्टो योनिकालः पठ्यते, तदुक्तम्-“एतेसि णं भंते ! सालीणं केवइअं कालं जोणी संचिहइ ?" इत्याद्यालापकाः, 'अविदलकडाओ'त्ति न द्विदलकृताः अद्विदलकृताः, अनूर्ध्वपाटिता इत्यर्थः, 'अतिरिच्छच्छिन्नाओ'त्ति तिरश्चीनं छिन्ना:-कन्दलीकृतास्तत्प्रतिषेधादतिरश्चीनच्छिन्नाः, एताश्च द्रव्यतः कृत्स्ना भावतो भाज्याः, 'अव्वोच्छिन्नाओ'त्ति व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्नाः अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थः, तथा 'तरुणियं वा छिवार्डि'ति, 'तरुणीम्' अपरिपक्का 'छिवाडि'न्ति मुद्गादेः फलिं, तामेव विशिनष्टि-'अणभितभजिय'न्ति, नाभिकान्ता जीविताद् अनभिक्रान्ता, सचेतनेत्यर्थः, 'अभजिया अभग्नाम्-अमर्दितामविराधितामित्यर्थः, इति 'प्रेक्ष्य' दृष्ट्वा तदेवंभूतमाहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे १ एतेषां भदन्त ! शालीनां कियन्तं कालं योनिः संतिष्ठति. SHIRISHIAATRIA
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy