________________
B
श्रीआचाराङ्गवृत्तिः (शी०)
॥३२३॥
ORRRRRR
सति न प्रतिगृहीयात् । साम्प्रतमेतदेव सूत्रं विपर्ययेणाह-प्स एव भावभिक्षुर्याः पुनरौषधीरेवं जानीयात् , तद्यथा-- श्रुतस्कं०२ कृत्स्नाः' असम्पूर्णा द्रव्यतो भावतश्च पूर्ववच्चर्चः, 'अस्वाश्रयाः' विनष्टयोनयः, 'द्विदलकृताः' ऊर्ध्वपाटिताः 'तिर- चूलिका १
चीनच्छिन्नाः' कन्दलीकृताः तथा तरुणिकां वा फलीं जीवितादपक्रान्तां भग्नां चेति, तदेवंभूतमाहारजातं प्रासुक-15|| पिण्डैष०१ है मेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति ॥ ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह
| उद्देशः१ से भिक्खू वा० जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा बहुरयं वा भुंजियं वा मंथु वा चाउलं वा चाउलपलंब वा सई संभजियं अफासुयं जाव नो पडिगाहिज्जा ॥से भिक्खू वा० जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा जाव चाउलपलंब वा असई भजियं दुक्खुत्तो वा तिक्खुत्तो वा भज्जियं फासुयं एसणिज्जं जाव पडिगाहिज्जा ।। (सू० ३) स भावभिक्षुहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् "पिहुयं वत्ति पृथुक जातावेकवचनं नवस्य शालिव्रीह्यादेरग्निना ये लाजाः क्रियन्ते त इति, बहु रजः-तुषादिकं यस्मिंस्तद्बहुरजः, 'भुजिय'न्ति अश्यर्द्धपक्कं गोधूमादेः शीर्षकमन्यद्वा तिलगोधूमादि, तथा गोधूमादेः 'मन्थु' चूर्ण तथा 'चाउलाः' तन्दुलाः शालिनीह्यादेः त एव चूर्णीकृतास्तत्कणिका वा चाउलपलंबंति, तदेवंभूतं पृथुकाद्याहारजातं सकृद् एकवारं 'संभजिय'ति आमर्दितं किञ्चिदग्निना किश्चिदपरशस्त्रेणापासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत्, नवरं यदसकृद्-अनेकशोऽयादिना पक्वमामर्दितं वा दुष्पक्वादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृह्णीयादिति ॥ सा॥३२३॥ साम्प्रतं गृहपतिकुलप्रवेशविधिमाह
RANASANASANAS