SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ इति, प्रभूताग्रं त्वापेक्षिक, तद्यथा-"जीवा पोग्गल समया दव्व पएसा य पजवा चेव । थोवाऽणताणता विसेसमहिया दुवे णता ॥ १ ॥" अत्र च यथोत्तरमग्रं, पर्यायाग्रं तु सर्वाग्रमिति, उपकाराग्रं तु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्त्तते तद् यथा दशवैकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यतोऽत्रोपकाराग्रेणाधिकार इति ॥ आह च नियुक्तिकारः__ उवयारेण उ पगयं आयारस्सेव उवरिमाइं तु । रुक्खस्स य पव्वयस्स य जह अग्गाइं तहेयाइं ॥५॥ उपकाराप्रेणात्र प्रकृतम्-अधिकारः, यस्मादेतान्याचारस्यैवोपरि वर्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्षपर्वतादेरग्राणीति । शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्त्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम्-"उच्चारिअस्स सरिसं जं केणइ तं परूवए विहिणा । जेणऽहिगारो तंमि उ परूविए होइ सुहगेझं ॥१॥” तत्रेदमिदानीं वाच्यं-केनैतानि नियूढानि ? किमर्थ ? कुतो वेति ?, अत आह-" धेरेहिष्णुग्गहट्ठा सीसहि होउ पागडत्थं च । आयाराओ अत्थो आयारंगेसु पविभत्तो ॥६॥ 'स्थविरैः' श्रुतवृद्धैश्चतुर्दशपूर्वविद्भिर्नियूढानीति, किमर्थ ?, शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थ, तथाऽप्रकटोऽर्थः १जीवाः पुद्गलाः समयाः (त्रैकालिकाः) द्रव्याणि प्रदेशाध पर्यवाश्चैव। स्तोकाः अनन्तगुणा अनन्तगुणा विशेषाधिकाः द्वयेऽनन्ताः (अनन्तगुणाः अनन्तगुणाः) ॥१॥२ गाथायां पज्जवा इत्यनेनोपात्तं. ३ उच्चारितस्य सदृशं यत्केनचित् तत् प्ररूप्यते विधिना । येनाधिकारस्तस्मिंस्तु प्ररूपिते. भवति सुखग्राह्यम् ॥१॥ आ. सू. ५४
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy