________________
श्रुतस्कं०२
श्रीआचारावृत्तिः (शी०)
॥३१८॥
दवोगाहण आएस काल कमगणणसंचए भावे । अग्गं भावे उ पहाणबहुये उवगारओ तिविहं ॥४॥
तत्र द्रव्याग्रं द्विधा-आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिक्तं त्रिधा-सचित्ताचित्तमिश्रद्रव्यस्य वृक्षकुन्ता- उपक्रमः देर्यदग्रमिति, अवगाहनाग्रं यद्यस्य द्रव्यस्याधस्तादवगाढं तदवगाहनाग्रं, तद्यथा-मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामुच्छ्रयचतुर्भागो भूमाववगाढ इति मन्दराणां तु योजनसहस्रमिति, आदेशाग्रम् आदिश्यत इत्यादेशः-व्यापारनियोजना, अग्रशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिमितानामादेशो दीयते तदादेशाग्रं, तद्यथा-त्रिभिः पुरुषैः कर्म कारयति तान् वा भोजयतीति, कालाग्रम्-अधिकमासकः, यदिवाऽप्रशब्दः परिमाणवाचकस्तत्रातीतकालोऽनादिरनागतोऽनन्तः 8| सर्वाद्धा वा, क्रमाग्रं तु क्रमेण-परिपाट्याऽयं क्रमानं, एतद् द्रव्यादि चतुर्विधं, तत्र द्रव्याग्रमेकाणुकाद् व्यणुकं दूधणुकाद् त्र्यणुकमित्येवमादि । क्षेत्राग्रम्-एकप्रदेशावगाढाद् द्विप्रदेशावगाढं, द्विप्रदेशावगाढात्रिप्रदेशावगाढमित्यादि । काला
प्रमेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थितिकमित्यादि, भावाग्रमेकगुणकृष्णाद् द्विगुणदाकृष्णं द्विगुणकृष्णात्रिगुणकृष्णमित्यादि, गणनाग्रं तु सङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थः, तद्यथा-एको दश
शतं सहस्रमित्यादि, सञ्चयाग्रं तु सञ्चितस्य द्रव्यस्य यदुपरि तत्सञ्चयाग्रं, यथा ताम्रोपस्करस्य सश्चितस्योपरि शङ्खः, भावाग्रं तु त्रिविध-प्रधानाग्रं १ प्रभूताग्रम् २ उपकाराग्रं ३ च, तत्र प्रधानानं सचित्तादि त्रिधा, सचित्तमपि द्विपदा
॥३१८॥ दिभेदानिधैव, तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तं वैडूर्यादि मिश्रं तीर्थकर एवालङ्कृत