SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ जयत्यनादिपर्यन्तमनेकगुणरत्नभृत् । न्यत्कृताशेषतीर्थेशं तीर्थ तीर्थाधिपैर्नुतम् ॥१॥ नमः श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चिताइये ॥२॥ आचारमेरोगेदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् । आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत निःशेषमशेषितक्रियः॥३॥ | उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽप्रश्रुतस्कन्धः समारभ्यते, अस्य चायमभिसम्बन्धः-उक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा-"नबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवा य सपंचचूलो बहुबहुअयरो पयग्गेणं ॥१॥" तत्राये श्रुतस्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु च न समस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सङ्केपतोऽतोऽनभिहितार्थाभिधानाय सङ्ग्रेपोक्तस्य च प्रपञ्चाय तदनभूताश्चतस्रथूडा उक्कानुक्तार्थसमाहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽप्रश्रुतस्कन्धः, इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनाहत्य द्रव्याग्रनिक्षेपार्थं नियुक्तिकृदाह १. तविशेष. २ °नंतम् ३ वीरनाथाय ४ नये ५ नवब्रह्मचर्यमयोऽष्टादशपदसहनको वेदः । भवति च सपञ्चचूलो बहुबहुतरः पदाप्रेण ॥१॥ CHANALANKAAऊ
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy