SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सप्तसप्तिकाख्या द्वितीया चूला । उक्तं सप्तममध्ययनं तदुक्तौ च प्रथमचूलाऽभिहिता इदानीं द्वितीया समारभ्यते अस्याश्चायमभिसम्बन्धः - इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्ग स्वाध्यायोच्चारप्रश्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद्दर्शयितुमाह सत्तिक्कगाणि इक्कस्सरगाणि पुष्व भणियं तहिं ठाणं । उद्धट्ठाणे पगयं निसीहियाए तहिं छक्कं ॥ ३२० ॥ 'सककान्येकसराणी'ति सप्ताध्ययनान्युदेशकरहितानि भवन्तीत्यर्थः, तत्रापि 'पूर्व' प्रथमं स्थानाख्यमध्ययनमभिहितमित्यतस्तद्व्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम् - किंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्च - तुर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकारः - ऊर्द्धस्थाने 'प्रकृतं' प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च पटूको निक्षेपः, तं च स्वस्थान एव करिष्यामीति । साम्प्रतं सूत्रमुच्चारणीयं तच्चेदम् — से भिक्खू वा० अभिकखेजा ठाणं ठाइत्तए, से अणुपविसिजा गामं वा जाव रायद्दाणिं वा, से जं पुण ठाणं जाणिजासअंडं जाव मक्कडासंताणयं तं तह० ठाणं अफासुयं अणेस ० लाभे संते नो प०, एवं सिज्जागमेण नेयध्वं जाव उदद्यपसु
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy