________________
425%
श्रीआचाराङ्गवृत्तिः (शी०) ॥४०६॥
श्रुतस्कं०२ चूलिका १ अवग्र०७ उद्देशः २
माचार्यादभिकासन्त आचार्यार्थ याचन्ते । चतुर्थी पुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वताम् । अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुष्पश्चानामिति, इयं तु जिनकल्पिकस्य । अथापरा षष्ठी-यदीयमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारक ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टो वा रजनी गमिष्यामीत्येषा जिनकल्पिकादेरिति। अथापरा सप्तमी-एषैव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्डैषणावन्नेयमिति ॥ किञ्च
सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पन्नत्ते, तं०-देविंदसम्गहे १ रायउग्गहे २ गाहावइउग्गहे ३ सागारियउग्गहे ४ साहम्मियउग्ग० ५, एवं खलु तस्स मिक्खुस्स भिक्खुणीए वा सामग्गियं (सू० १६२) उग्गहपडिमा सम्मत्ता । अध्ययनं समाप्तं सप्तमम् ॥ २-१-७-२॥ श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोन्नेयं यावदुद्देशकसमाप्तिरिति ॥ अवग्रहप्रतिमाख्यं सप्तममध्ययनं समाप्त, तत्समाप्तौ प्रथमाऽऽचाराङ्गचूला समाप्ता ॥२-१-७॥
AAAAAAACA2%
॥४०६॥