________________
श्रीआचाराजवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ ईष०३ उद्देशः १
॥३७५॥
'सर्वेऽपि' त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रमं किञ्चिद्वक्ष्याम इति ॥ यथाप्रतिज्ञातमाहपढमे उवागमण निग्गमो य अद्वाण नावजयणा य । बिइए आरूढ छलणं जंघासंतार पुच्छा य ॥ ३११॥
प्रथमोद्देशके वर्षाकालादावुपागमनं-स्थान तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्य छलनं-प्रक्षेपणं व्यावयेते, जङ्घासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना यद्विधेयमेतच्च प्रतिपाद्यमिति ॥ | तइयंमि अदायणया अप्पडिबंधो य होइ उवहिंमि । वज्जेयव्वं च सया संसारियरायगिहगमणं ॥ ३१२ ॥
तृतीयोद्देशके यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधिकारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वजेनीयं, न च तेषामाख्येयमिति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
अन्भुवगए खलु वासावासे अभिपवुढे बहवे पाणा अभिसंभूया बहवे बीया अहुणाभिन्ना अंतरा से मग्गा बहुपाणा बहुबीया जाब ससंताणगा अणभिकंता पंथा नो विन्नाया मग्गा सेवं नच्चा नो गामाणुगामं दूइजिजा, तओ संजयामेव वासावासं उवल्लिइजा ॥ (सू० १११) आभिमुख्येनोपगतासु वर्षासु अभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामा
॥३७५॥