________________
ANNARRAR
भांवइरियाओ दुविहा चरणरिया चेव संजमरिया य । समणस्स कहं गमणं निद्दोसं होइ परिसुद्धं ? ॥३०७॥ __ भावविषयेर्या द्विधा-चरणेर्या संयमेर्या च, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसख्येयेषु संयमस्थानेप्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणेर्या तु 'अभ्र वभ्रमभ्र चर गत्यर्थाः' चरते वे ल्युट चरणं तद्रूपेर्या चरणा, चरणं गतिर्गमनमित्यर्थः, तच्च श्रमणस्य 'कथं' केन प्रकारेण भावरूपं गमनं निर्दोष भवति ? इति ॥ आह
आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु ॥ ३०८॥ _ 'आलम्बन' प्रवचनसङ्घगच्छाचार्यादिप्रयोजनं 'कालः' साधूनां विहरणयोग्योऽवसरः 'मार्गः' जनैः पयां क्षुण्णः पन्थाः 'यतना' उपयुक्तस्य युगमात्रदृष्टित्वं, तदेवमालम्बनकालमार्गयतनापदैरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडश| विधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह
चउकारणपरिसुद्धं अहवावि (ह)होज कारणज्जाए। आलंबणजयणाए काले मग्गे य जइयव्वं ॥ ३०९॥ ला चतुर्भिः कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवाऽका
लेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनं भवति, एवंभूते च मार्गे साधुना यतितव्यमिति ॥ उक्तो नामदानिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याह
सब्वेवि ईरियविसोहिकारगा तहवि अत्थि उ विसेसो। उद्देसे उद्देसे बुच्छामि जहक्कम किंचि ॥ ३१०॥