________________
श्रीआचारावृत्तिः (शी०) ॥ ३७४॥
सुखोन्नेयं, यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर'मिति यैव काचिद्विषमसमादिका वसतिः संपन्ना तामेव समचित्तोऽधिवसेत्-न तत्र व्यलीकादिकं कुर्यात् , एतत्तस्य भिक्षोः सामग्र्यं यत्सर्वार्थैः सहितः सदा यतेतेति ॥ द्वितीयमध्ययनं शय्याख्यं समाप्तम् ॥ २-१-२-२॥
श्रुतस्क०२ चूलिका ईष. ३ उद्देशः १
। उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहाद्येऽध्ययने धर्मशरीरपरिपालनार्थ पिण्डः प्रतिपादितः, स चावश्यमैहिकामुष्मिकापायरक्षणार्थ वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थ गमनं विधेयं, तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम् , इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनुगमे नामनिक्षेपणार्थ नियुक्तिकृदाहनामं १ ठवणाइरिया २ दवे ३ खित्ते ४ यकाल ५ भावे ६ य। एसोखलु इरियाएनिक्खेवो छव्विहो होइ ॥३०॥ कण्ठ्यं । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्येर्याप्रतिपादनार्थमाह
व्वइरियाओं तिविहा सचित्ताचित्तमीसगा चेव । खित्तंमि जमि खित्ते काले कालो जहिं होइ ॥३०६॥ तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य-वायुपुरुषादेव्यस्य यद्गमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्यर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्या वा वर्ण्यते, एवं कालेोऽपि द्रष्टव्येति ॥ भावेर्याप्रतिपादनायाह
॥३७४।।