________________
इयांस्त विशेषः-गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा। निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति ॥
अहावरा चउत्था पडिमा से भिक्खू वा अहासंथडमेव संथारगं जाइज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संवसिज्जा, तस्स अलाभे उक्कडुए वा २ विहरिजा, चउत्था पडिमा ४ ॥ (सू० १०२) एतदपि सुगम, केवलमस्यामयं विशेषः-यदि शिलादिसंस्तारक यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यथेति ॥ किश्च
इच्चेयाणं चउण्हं पडिमाणं अन्नयर पडिमं पडिवजमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं च णं विहरंति ॥ (सू० १०३) आसां चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधुं न हीलयेद्, यस्मात्ते सर्वेऽपि जिनाज्ञामाश्रित्य समाधिना वर्तन्त इति ॥ साम्प्रतं प्रातिहारकसंस्तारकप्रत्यर्पणे विधिमाह
से मिक्खू वा० अभिकंखिजा संथारगं पञ्चप्पिणित्तए, से जं पुण संथारगं जाणिज्जा सअंडं जाव ससंताणयं तहप्प० सं
थारगं नो पञ्चप्पिणिज्जा ॥ (सू० १०४) स भिक्षुः प्रातिहारिक संस्तारक यदि प्रत्यर्पयितुमभिकाङ्केदेवंभूतं जानीयात् तद्यथा-गृहकोकिलकाद्यण्डकसंबद्धमप्रत्युपेक्षणयोग्य ततो न प्रत्यर्पयेदिति । किश्च
सू. ६३