________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्क०२ चूलिका १ शय्यैष०२ उद्देशः ३
॥३७२॥
NAGACANSARKARSASAX
यथासंस्तृत ४ रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमगहीष्यामि नेतरदिति प्रथमा १, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया ३ तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो गृहीष्यामि नान्यथेति चतुर्थी प्रतिमा ४ । आसु च प्रतिमास्वाद्ययोः प्रतिमयोगच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतस्रोऽपि कल्पन्त इति, एताश्च यथाक्रम सूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा-उद्दिश्योद्दिश्येकडादीनामन्यतमद्भहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति, शेष कण्ठ्यं नवरं 'कठिनं' वंशकटादि 'जन्तुकं' तृणविशेषोत्पन्नं 'परक' येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते 'मोरगति मयूरपिच्छनिष्पन्नं 'कुच्चगति येन कूर्चकाः क्रियन्ते, एते चैवंभूताः संस्तारका अनूपदेशे साद्रादिभूम्यन्तरणार्थमनुज्ञाता इति ॥
अहावरा दुच्चा पडिमा-से मिक्खू वा० पेहाए संथारगं जाइजा, तंजहा-गाहावई वा कम्मकरिं वा से पुब्वामेव आलोइजा-आउ०! भइ०! दाहिसि मे? जाव पडिगाहिज्जा, दुच्चा पडिमा २ ॥ अहावरा तच्चा पडिमा-से भिक्खू वा० जस्सुवस्सए संवसिज्जा जे तत्थ अहासमन्त्रागए, तंजहा-इक्कडे इ वा जाव पलाले इ वा तस्स लाभे संवसिजा तस्सालाभे उकुडुए वा नेसज्जिए वा विहरिजा तच्चा पडिमा ३ ॥ ( सू० १०१)। अत्रापि पूर्ववत्सर्व भणनीयं, यदि परं तमिक्कडादिकं संस्तारकं दृष्टा याचते नादृष्टमिति ॥ एवं तृतीयाऽपि नेया,
॥३७२॥