________________
श्रीआचा-1 राङ्गवृत्तिः -(शी०)
॥३७०॥
स भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यानुविचिन्त्य च-किंभूतोऽयं प्रतिश्रयः? कश्चात्रेश्वरःइ-18 श्रुतस्कं०२ त्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र 'ईश्वरः' गृहस्वामी यो वा तत्र 'समधिष्ठाता' प्रभुनियुक्तस्तानुपाश्रयमनु- चूलिका १ ज्ञापयेत् , तद्यथा-काम' तवेच्छया आयुष्मन् ! त्वया यथापरिज्ञातं प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, शय्यैष०२ एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयाद्-यथा कियत्कालं भवतामत्रावस्थानमिति?, एवं गृहस्थेन पृष्टः साधुः वसति- उद्देशः ३ प्रत्युपेक्षक एतद् ब्रूयाद्-यथा कारणमन्तरेण ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानवस्थानमिति, एवमुक्तः कदाचिसरो यात्-नैतावन्तं कालं ममात्रावस्थानं वसतिर्वा, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्-यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, ततः परेण विहरिष्याम इत्युत्तरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्ति अपरे कृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं न कथनीयमिति भावार्थः॥ किञ्च
से भिक्खू वा. जस्सुवस्सए संवसिज्जा तस्स पुवामेव नामगुत्तं जाणिज्जा, तओ पच्छा तस्स गिहे निमंतेमाणस्स वा
अनिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव नो पडिगाहेज्जा ।। ( सू० ५०) सुगम, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यं, तत्परिज्ञानाच्च सुखेनैव"प्राघूर्णिका- ॥३७०॥ दयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति । किश्व