________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ३६४ ॥
गाहावई नामेगे सुइसमायारा भवंति से भिक्खू य असिणाणए मोयसमायारे से तग्गंधे दुग्गंधे पडिकूले पडिलोमे यावि भवइ, जं पुव्वं क्रम्मं तं पच्छा कम्मं जं पच्छा कम्मं तं पुरे क्रम्मं तं भिक्खुपडियाए वट्टमाणा करिज्ज्ञा वा नो करिज्जा वा, अह भिक्खूणं पु० जं तहप्पगारे उ० नो ळाणं० ॥ (सू०७२ )
'एके' केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा - चन्दनागुरुकुडमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवा शात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थको वैतावतिशयानभिमतत्वख्यापनार्था बुपात्ताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमौ स्नानादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्वं कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधात्प्राप्तकालमपि भोजनादिकं न कुर्युः, ततश्चान्तरायमनः पीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुर्युर्विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति ॥ किश्व
आयाणमेयं भिक्खु गाहावईहिं सद्धिं सं०, इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्खडिए सिथा, अह पच्छा भिक्खुपडियाए असणं वा ४ उवक्खडिज़ वा उवकरिज्ज वा तं च भिक्खू अभिकंखिजा भुतवा पाय वा वियट्टित्तए वा, अह भि० जं नो तह० ॥ ( सू० ७३) आयाणमेयं भिक्खुस्स गाहाबरणा सद्धि संव०
श्रुतस्कं० २ चूलिका १ शय्यैष०२ उद्देशः २
॥ ३६४ ॥