________________
व्याप्रियते, तथा अध्यवसायाः-सूक्ष्मा आत्मनः परिणामविशेषाः, ते च लक्षणम्, अव्यक्तचैतन्यपुरुषमनःसमुद्भूतचिन्ताविशेषा इवानभिलक्ष्यास्तेऽभिगन्तव्याः, तथा साकारोपयोगान्तःपातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिका बोद्धव्याः, तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगता बोद्धव्याः, तथा ज्ञानावरणीयाद्यष्टविधकर्मोदयभाजस्तावद्वन्धमाजश्च, तथा लेश्या-अध्यवसायविशेषरूपाः कृष्णनीलकापोततेजस्यश्चतस्रः ताभिरनुगताः, तथा दशविधसंज्ञानुगताः, ताश्च आ-15 हारादिकाः प्रागुक्ता एव, तथा सूक्ष्मोच्छासनिःश्वासानुगताः, उक्तं च-"पुढविकाइया णं भंते ! जीवा आणवन्ति |वा पाणवन्ति वा ऊससन्ति वा नीससंति वा ?, गोयमा! अविरहियं सतयं चेव आणवन्ति वा पाणवन्ति वा ऊससन्ति वा नीससन्ति वा" कषाया अपि सूक्ष्माः क्रोधादयः । एवमेतानि जीवलक्षणान्युपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनुगतत्वात् मनुष्यवत्सचित्ता पृथिवीति । ननु च तदिदम| सिद्धमसिद्धेन साध्यते, तथाहि-न झुपयोगादीनि लक्षणानि पृथिवीकायेषु व्यक्कानि समुपलक्ष्यन्ते, सत्यमेतद्, अव्य
तानि तु विद्यन्ते, यथा कस्यचित्पुंसः हृत्पूरकव्यतिमिश्रमदिरातिपानपित्तोदयाकुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावता तस्याचिद्रूपता, एवमप्यब्यक्तचेतनासम्भवोऽभ्युपगन्तव्यः) ननु चात्रोच्छासादिकमव्यक्तचेतनालिङ्ग3 मस्ति, न चेह तथाविध किञ्चिच्चेतनालिङ्गमस्ति, नैतदेवम्, इहापि समानजातीयलतोद्भेदादिकमर्शोमांसाङ्कुरवञ्चेतना
१ पृथ्वीकायिका भदन्त ! जीवा आनन्ति वा प्राणन्ति वा उच्छ्सन्ति वा निःश्वसन्ति वा ?, गौतम ! अविरहितं सततमेव चानन्ति वा प्राणन्ति वा उच्सन्ति सेवा निःश्वसन्ति वा.
भा. सू.६