________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ३१ ॥
चिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भावितैक चेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टर्तुपुष्पफलप्रदत्वेन स्पष्टं साधयिष्यते च ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् सचित्ता पृथिवीति स्थितम् ॥ ननु चाश्मलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमित्यत आह
अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिहं । एवं जीवाणुगयं पुढविसरीरं खरं होइ ॥ ८५ ॥ यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम्, एवं जीवानुगतं पृथिवीशरीरमपीति ॥ साम्प्रतं लक्षणद्वारानन्तरं परि
माणद्वारमाह -
जे बायरपज्जन्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोया असंखिना ॥ ८६ ॥ तत्र पृथिवीकायिकाश्चतुर्द्धा तद्यथा - बादराः पर्याप्ता अपर्याप्ताश्च तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च तत्र ये बादराः पर्याप्तकास्ते संवर्त्तितलोकप्रतरासंख्येय भागमात्रवर्त्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि राशयः प्रत्येकमसंख्ये| यानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तम् - " सव्वत्थोवा बादरपुढविकाइया पज्जत्ता, बादरपुढविकाइया अपज्जत्ता असंखेज्जगुणा, सुहुमपुढविकाइया अपज्जत्ता असंखेज्जगुणा, सुहुमपुढविकाइया पज्जत्ता असंखेज्जगुणा” ॥ प्रकारान्तरेणापि राशित्रयस्य परिमाणं दर्शयितुमाह
१ सर्वस्तोका बादरपृथ्वीकायिकाः पर्याप्ताः बादरपृथ्वी कायिका अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः पर्याप्ता असंख्येयगुणाः.
अध्ययनं १ उद्देशकः २
॥ ३१ ॥