________________
श्रीआचा राङ्गवृत्तिः
(शी०)
॥ ३० ॥
ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जह दीसह नाणसं पुढवीकाए तहा जाण ॥ ८१ ॥ यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यः - शाल्याद्याः, तृणानि-दर्भादीनि, सेवालं- जलोपरि मलरूपं, पनकः काष्ठादावुल्लीविशेषः पञ्चवर्णः कन्दः - सूरणकन्दादिः, मूलम् - उशीरादीति ॥ एते च सूक्ष्मत्वान्नैकद्व्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तूपलम्भ्यन्ते तद्दर्शयितुमाह
इकस्स दुण्ह तिन्ह व संखिज्जाण व न पासिउं सका । दीसंति सरीराई पुढविजियाणं असंखाणं ॥ ८२ ॥ स्पष्टा ॥ कथं पुनरिदमवगन्तव्यम् ?, सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि प्रतीतिर्गवाश्वादाविव इति, एतद्दर्शयितुमाह
एएहिँ सरीरे हिं पचक्खं ते परूविया हुंति । सेसा आणागिज्झा चक्खुफासं न जं इंति ॥ ८३ ॥ 'एभिः' असंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभेदभिन्नैः शरीरैस्ते शरीरिणः शरीरद्वारेण 'प्रत्यक्षं' साक्षात् 'प्ररूपिताः ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञामाह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः ॥ प्ररूपणाद्वारानन्तरं लक्षणद्वारमाह
उवओगजोग अज्झवसाणे महसुय अचक्खुदंसे य । अट्ठविहोदयलेसा सन्नुस्सा से कसाया य ॥ ८४ ॥ तत्र पृथिवीकायादीनां स्त्यानर्ध्याद्युदयाद्या च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षणं, तथा योगः- कायाख्य एक एव, औदारिकतन्मिश्रकार्म्मणात्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय
अध्ययनं १ उद्देशकः २
॥ ३० ॥