________________
**
पुढवीय सकरा वालुगा य उवले सिला य लोणूसे । अथ तंब तउअ सीसग रुप्प सुवण्णे य वइरे य ॥ ७३ ॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्भपडलब्भवालुअ बायरकाए मणिविहाणा ॥ ७४ ॥ गोमेज य रुपगे अंको फलिहे य लोहियक्खे य । मेरगय मसारगल्ले भुयमोयग इंदनीले य ॥ ७५ ॥ चंदप्पह वेरुलिए जलकंते चैव सूरकन्ते य । एए खरपुढवीए नामं छत्तीसगं होइ ॥ ७३ ॥
अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्द्दश भेदाः परिगृहीताः, द्वितीयगाथया स्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एताः स्पष्टा इति कृत्वा न विवृताः ॥ एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह
वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेज्जा । णेगाइ सहस्साइं हुंति विहाणंमि इक्किके ॥ ७७ ॥
तत्र वर्णाः शुक्लादयः पञ्च रसास्तिकादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शाः मृदुकर्कशादयः अष्टौ, तत्र वर्णादिके एकैकस्मिन् 'योनिप्रमुखा' योनिप्रभृतयः संख्येया भेदा भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह- अनेकानि सहस्राणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात् १ चंदण गेरय हंसग भुयमोय मसारगले य प्र.