________________
श्रीआचा- राङ्गवृत्तिः (शी०) ॥२८॥
४ अध्ययन उद्देशकः२
नामंठवणापुढवी दवपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खेवो चउविहो होइ ॥ ६९॥ सष्टा, नामस्थापने क्षुण्णत्वादनादृत्याह| दवं सरीरभविओ भावेण य होइ पुढविजीवो उ। जो पुढविनामगोयं कम्मं वेएइ सो जीवो॥७॥
द्रव्यपृथिवी आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवापेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो-वालादिस्ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीव:-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्ण वेदयति । गत निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम्
दुविहा य पुढविजीवा सुहमा तह बायरा य लोगंमि । सुहमा य सब्बलोए दो चेव य बायरविहाणा ॥१॥ | पृथिवीजीवा द्विविधाः-सूक्ष्मा बादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनामकर्मोदयात्तु बादराः, कर्मोदयजका निते एवैषां सूक्ष्मबादरत्वे न त्यापेक्षिके बदरामलकयोरिव ॥ तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोक
व्यापिनः, बादरास्तु मूलभेदाद्विविधा इत्याह| दुविहा बायरपुढवी समासओ सण्हपुढवि खरपुढवी । सण्हा य पंचवण्णा अवरा छत्तीसइविहाणा ॥७२॥ । 'समासतः' संक्षेपाद्विविधा बादरपृथिवी-श्लक्ष्णवादरपृथिवी खरबादरपृथिवी च, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदात्पञ्चधा, इह च गुणभेदाद्गुणिभेदोऽभ्युपगन्तव्यः, खरबादरपृथिव्यास्त्वन्येऽपि षट्त्रिंशद्विशेषभेदाः सम्भवन्तीति ॥ तानाह
HOCHOCIA*** SHIRICIST
XI॥२८॥
k