SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सञ्जातं, उक्तं च-'किं थे तैयं पम्हुहं जं च तया भो! जयंतपवरंमि । वुच्छा समयनिबद्धं देवा! तं संभरह जातिं ॥२॥ ६ इति गाथात्रयतापर्थिः ॥४॥ II. साम्प्रतं प्रकृतमनुभियते-यो हि सोऽहमित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंतति पतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति। से आयावादी लोयावादी कम्मावादी किरियावादी (सू० ५) . 'स' इति यो भ्रान्तः पूर्व नारकतिर्यग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामूर्तादिलक्षणोपेतमात्मानमैवैति, स इत्थंभूतः 'आत्मवादी'ति आत्मानं वदितुं शीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिकं वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्व-| व्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिर्न स्यात्, सर्वथा नित्यत्वेऽपि 'अप्रच्युतानुसन्नस्थिरैकस्वभावं नित्य'मितिकृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात्, सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः-प्राणिगणस्तं वदितुं शीलमस्येति, अ-1 नेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापाती'ति लोकः-चतुर्दशरज्वात्मकः प्राणिगणो वा, तत्रापतितुं १च. प्र. २ किमथ तद्विस्मृतं यच तदा भो जयन्तप्रवरे । उषिताः निबद्धसमयं देवास्तां स्मरत जातिम् ॥ १॥ ३ नं वेत्ति. THAKRA%AAS
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy