________________
श्रीआचाराजवृत्तिः (शी०)
अध्ययनं१ उद्देशकः१
॥२१॥
मावास्यादिके विशिष्टे पर्वदिवसे न वर्चते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत्-यदि सर्वदाऽना- कुट्टिः स्याच्छोभनं भवेद् , एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते च तेनाभिहिताः-किमद्य भवतामनाकुट्टिर्न सञ्जाता? येनावी प्रस्थिताः, तैरप्यभिहितम्-'यथाऽस्माकं यावजीवमनाकुट्टिरित्यभिधायातिक्रान्ताः साधवः, तस्य च तदाकयेहापोहविमर्शन जातिमरणमुत्पन्न-यथाऽहं जन्मान्तरे प्रव्रज्यां कृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या-जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति । परव्याकरणे त्विदमुदाहरणम्-गौतमस्वामिना भगवान्वर्द्धमानस्वामी पृष्टो-भगवन् ! किमिति मे केवलज्ञानं नोपद्यते ?, भगवता व्याकृतं-भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तशात्, तेनोक्तम्-'भगवन्नेवमेवं, किंनिमित्तःपुनरसौ मम भगवदुपरि स्नेहः १, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिहोऽसि मे परिचिओऽसि मे गोयमेत्येवमादि, तच्च तीर्थकृव्याकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति । अन्यश्रवणे त्विदमुदाहरणम्-मल्लिस्वामिना पण्णां राजपुत्राणामुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थ यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं, तच्चाकर्ण्य ते लघुकर्मत्वात्प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च
१०मेतत् प्र. २ चिरसंसृष्टोऽसि मया गौतम ! चिरपरिचितोऽसि मम गौतम !