SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च जीवास्तिकायस्य सम्भवेन जीवानां गमना- अध्ययन राङ्गवृत्तिः गमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् 'कर्मवादी' कर्म(शी०) उद्देशक ज्ञानावरणीयादि तद्वदितुं शीलमस्य, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्व गत्यादियोग्यानि कर्मा ण्याददते, पश्चात्तासु तासु विरूपरूपासु योनिषूपद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमिति । अनेन च ॥२२॥ कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः। तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापारः, स च क्रियारूपः, अतः कर्मणः कार्यभूतस्य वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः-"जाणं भंते ! एस जीवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जाव तं तं भावं परिणमति तावं च णं अट्ठविहबंधए वा सत्तविहबंधए वा छविहबंधए वा एगविहबंधए वा णो णं अबंधए"त्ति, एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति, अनेन च । सांख्याभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति ॥ ५ ॥ साम्प्रतं पूर्वोक्ता क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिना तिड्प्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमनःपर्यायकेवलज्ञानजातिस्मरणव्यतिरेकेणैव त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगम दर्शयितुमाह१ यावद् भवन्त ! एष जीवः सदा समितमेजते व्येजते चलति स्पन्दते तिप्यति यावत् तं तं भावं परिणमति तावच अविधवन्धको वा सप्तविधबन्धको ॥२२॥ दावा षधिबन्धको वा एकविधबन्धको वा, नाबन्धकः, AAAAKRA
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy