________________
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशका
॥२९
॥
आहारयामि तावत्कतिचिद्दिनानि पुनः संलेखनाशेषं विधास्येऽहमित्येवं नाहारान्तिकमियादिति ॥३॥ किं च-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुर्जीवितं-प्राणधारणलक्षणं नाभिकाङ्गेन, नापि क्षुद्वेदनापरीषहमनधिसहमानो मरणं प्रार्थयेद् 'उभयतोऽपि' जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा ॥४॥ किं भूतस्तर्हि स्यादित्याह
मज्झत्थो निज्जरापेही, समाहिमणुपालए । अन्तो बहिं विऊस्सिज्ज, अज्झत्थं सुद्धमेसए ॥ ५॥ जं किंचुवकमं जाणे, आऊखेमस्समप्पणो। तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज पण्डिए ॥ ६॥ गामे वा अदुवा रणे, थंडिलं पडिलेहिया। अप्पपाणं तु विनाय, तणाई संथरे मुणी ॥७॥ अणाहारो तुयहिज्जा, पुट्ठो तत्थऽहियासए।
नाइवेलं उवचरे, माणुस्सेहि विपुट्रवं ॥८॥ रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोर्निराकाङ्क्षतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधि-मरणसमाधिमनुपालयेत्-जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युसृज्यात्मन्यध्यध्यात्मम्-अन्तःकरणं तच्छुद्धं सकलद्वन्द्वोपरमाद्विस्रोतसिकारहितमन्वेषयेत्-प्रार्थयेदिति ॥ ५ ॥ किं चउपक्रमणमुपक्रमः-उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः-'आयुःक्षेमस्य' आयुषः क्षेम-सम्यक्पालनं तस्य,
॥२९
॥