SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ वा जाव रायहाणि वा तणाई जाइज्जा जाव सन्धरिज्जा, इत्थवि समए कार्य च जोगं च ईरियं च पच्चक्खाड़ज्जा, तं सच्चं सच्चावाई ओए तिने छिन्नकहंकहे आइय अणाईए चिच्चाणं भेउरं कायं संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणाए भैरवमचिने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्चेयं विमोहाय - यणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि ( सू० २२६) ८-७ ॥ णमिति वाक्यालङ्कारे, यस्य भिक्षोरेवंभूतो - वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा - ग्लायामि खल्वहमित्यादि यावत्तृणानि संस्तरेत्, संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह- अत्रापि समये - अवसरे न केवलमन्यत्रानुज्ञाप्य संस्तारकमारुह्य सिद्धसमक्षं स्वत एव पञ्चमहाव्रतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कायं च शरीरं प्रत्याचक्षीत, तद्योगं च -आकुञ्चनप्रसारणोन्मेषनिमेषादिकम्, तथेरणमीर्या तां च सूक्ष्मां कायवाग्गतां मनोगतां वाऽप्रशस्तां प्रत्याचक्षीत, तच्च सत्यं सत्यवादीत्याद्यनन्तरोद्देशकवन्नेयम् । इतिब्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः ८-७ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy