________________
श्रीआचा- राङ्गवृत्तिः (शी०)
विमो०८ उद्देशकः
॥२८३॥
तव अठाए असणं वा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाई सत्ताई समारंभ समुद्दिस्स कीयं पामिच्चं अच्छेजं अणिसिहं आहट्ट चेएमि' इत्यादिना ग्रन्थेनेति, तथाऽनन्तरोदेशके ग्रहणैषणा प्रतिपादिता, “सिया य से एवं वयंतस्सवि परो अभिहडं असणं वा ४ आहटु दलएज्जा" इत्यादिना ग्रन्थेन, ततो ग्रासैषणाऽवशिष्यते, अतस्तत्प्रतिपादनायाह
से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिजा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव अ(सम)भि
जाणिया (सू० २२०) । 'स' पूर्वव्यावर्णितो 'भिक्षुः' साधुः साध्वी वा अशनादिकमाहारमुद्गमोसादनैषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धं च गृहीतं सदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयो रागद्वेषौ निमित्तं, तयोरपि सरसनीरसोपलब्धिः, कारणाभावे च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारं दर्शयति-स भिक्षुराहारमाहारयन्नो वामतो हनुतो दक्षिणां हर्नु रसोपलब्धये सञ्चारयेदास्वादयन्नशनादिकं, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन् , तत्सञ्चारास्वादनेन
S
॥२८३॥