SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ हि रसोपलब्धौ रागद्वेषनिमित्ते अङ्गारितत्वाभिधूमितत्वे स्यातामतो यत्किश्चिदप्यास्वादनीयं नास्वादयेत्, पाठान्तरं वा |'आढायमाणे' आदरयानाहारे मूछितो गृद्धो न सञ्चारयेदिति, हन्वन्तरसङ्कमवदन्यत्रापि नास्वादयेदिति दर्शयति-स ह्याहारं चतुर्विधमप्याहारयन् रागद्वेषौ परिहरन्नास्वादयेदिति, तथा कुतश्चिन्निमित्ताद्धन्वन्तरं सञ्चारयन्नप्यनास्वादयन् सञ्चारयेदिति। किमिति यत आह-आहारलाघवमागमयन्-आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्यु पगमोऽभिहितो भवति, एवं च तपः 'से' तस्य भिक्षोरभिसमन्वागतं भवतीत्यादि गतार्थ यावत् 'सम्मत्तमेव समभिजा६ णिय'त्ति॥ तस्य चान्तप्रान्ताशितयाऽपचितमांसशोणितस्य जरदस्थिसन्ततः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह जस्स णं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इमंमि समए इमं सरीरगं अणुपुत्वेण परिवहित्तए, से अणुपुत्वेणं आहारं संवहिज्जा, अणुपुव्वेणं आहारं संवहित्ता कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्टाय भिक्खू अभिनि वुडच्चे (सू० २२१) 'णम्' इति वाक्यालङ्कारे यस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवं गतस्य 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, 'से' इति तच्छब्दार्थे तच्छब्दोऽपि वाक्योपन्यासार्थे, 'चः' शब्दसमुच्चये 'खलुः' अवधारणे, अहं चास्मिन् 'समये'
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy