________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २८० ॥
मभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ- पुट्ठो अबलो अहमसि नालमहमंसि गिहंतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा ४ आहद्दु दलइज्जा, से पुव्वामेव आलोइज्जा आउसंतो ! नो खलु मे कप्पइ अभिहडं असणं ४ भुत्त वा पायए वा अन्ने वा एयप्पगारे ( सू० २१६ )
तत्र त्रिकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात्, कल्पद्वयपर्युषितस्तु नियमाज्जिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमः, अस्मिन् सूत्रेऽपदिष्टो यो भिक्षुर्जिन कल्पिकादिर्द्वाभ्यां वस्त्राभ्यां पर्युषितो वस्त्रशब्दस्य सामान्यवाचित्वादेकः क्षौमिकोऽपर और्णिक इत्याभ्यां कल्पाभ्यां पर्युषितः - संयमे व्यवस्थितः, किम्भूताभ्यां कल्पाभ्यां ? - पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोद्देशकवन्नेयं यावत् 'नालमह मंसि'त्ति स्पृष्टोऽहं वातादिभी रोगैः 'अबल: असमर्थः 'नालं' न समर्थोऽस्मि गृहागृहान्तरं सङ्क्रमितुं, तथा भिक्षार्थं चरणं चर्या भिक्षाचर्या तद्गमनाय 'ना' न समर्थ इति, तमेवम्भूतं भिक्षुमुपलभ्य स्याद्गृहस्थ एवम्भूतामात्मीयामवस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसार्द्रहृदयोऽभिहृतं - जीवोपमर्दनिर्वृत्तं, किं तद् ? - अशनं पानं खादिमं स्वादिमं चेत्यारादाहृत्य तस्मै साधवे 'दलज्ज' त्ति दद्यादिति । तेन च ग्लानेनापि साधुना सूत्रार्थमनुसरता जीवितनिष्पिपासुनाऽवश्यं मर्त्तव्यमित्यध्यवसायिना किं विधेयमित्याह-स जिनकल्पिकादीनां चतुर्णामप्यन्यतमः पूर्वमेव - आदावेव 'आलोचयेत्' विचारयेत्, कतरे
विमो० ८
उद्देशक:५
॥ २८० ॥