________________
प्राकालस्वात् तथा निःश्रेयसं कर्म्मक्षयहेतुत्वात् तथा 'आनुगामिकं' तदर्जितपुण्यानुगमनात्, इतिब्रवीमिशब्दौ पूर्ववद् । विमोक्षाध्ययनस्य चतुर्थोद्देशकः समाप्तः ॥
उक्तश्चतुर्थोद्देशकः, साम्प्रतं पश्ञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेश के बालमरणं गार्द्धपृष्ठादिकमुपन्यस्तम्, इह तु तद्विपर्यस्तं ग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाख्यं मरणमभ्युपगन्तव्यमित्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् -
जे भिक्खू दोहिं वत्थेहिं परिवुसिए पायतइएहिं तस्स णं नो एवं भवइ - तइयं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाइं जाइज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं, अह पुण एवं जाणिज्जा - उवाइकंते खलु हेमन्ते गिम्हे पडिवण्णे, अहापरिजुन्ना वत्थाई परिविजा, अहापरिजुन्नाइं परिट्ठवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव स