________________
श्रीआचा- दयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं वा भक्षयेत् पतनं वा कुर्याद् विमो०८ राङ्गवृत्तिः दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ननु च वेहानसादिकं बालमरणमुक्तं, तच्चानाय,
त उद्देशकः४ (शी०) तत्कथं तस्याभ्युपगमः?, तथा चागमः-"इच्चेएणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं
संजोएइ जाव अणाइयं च णं अणवयग्गं चाउरंतं संसारकतारं भुजो भुजो परियट्टइ'त्ति, अत्रोच्यते, नैष दोषोऽत्रास्मा॥२७९॥
कमार्हतानां, नैकान्ततः किञ्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपि तु द्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति, एतद्दर्शयितुमाह-दीर्घकालं संय
मप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्रापि वेहानसगावार्द्धप्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेण |
यावन्मात्रं कर्मासौ क्षपयति तदसावल्पेनापि कालेन कर्मक्षयमवामोतीति दर्शयति–'सोऽपि' वेहानसादेविधाता, न केवलमानुपूर्ध्या भक्तपरिज्ञादेः कर्तेत्यपिशब्दार्थः, 'तत्र' तस्मिन् वेहानसादिमरणे 'विअंतिकारएत्ति विशेषेणान्तिय॑न्तिः |-अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्य हि तस्मिन्नवसरे तदेहानसादिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च, उपसञ्जिहीर्घराह–इत्येतत्' पूर्वोकं वेहानसादिमरणं विगतमोहानामायतनम्-आश्रयः कर्त्तव्यतया तथा हितम् अपायपरिहारतया तथा सुखं जन्मान्तरेऽपि सुखहेतुत्वात् तथा 'क्षम' युक्तं ॥२७९॥
१ इत्येतेन बालमरणेन म्रियमाणो जीवोऽनन्तै रयिकभवग्रहणैरात्मानं संयोजयति यावदनादिकं चानवदनं चातुरन्तं संसारकान्तारं भूयो भूयः परिवर्तते.
+
+
S