________________
| विअंतिकारए, इच्चेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि
(सू० २१५)॥८-४॥ विमोक्षाध्ययने चतुर्थ उद्देशकः ॥ ‘णम्' इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खल्वहमस्मि रोगातकैः शीतस्पर्शादिभिर्वा ख्याधुपसर्गा, ततो ममास्मिन्नवसरे शरीरविमोक्षं कर्तुं श्रेयो 'नालं' न समर्थोऽहमस्मि,
'शीतस्पर्श' शीतापादितं दुःखविशेष भावशीतस्पर्श वा रूयाद्युपसर्गम् 'अध्यासयितुम्' अधिसोढुमित्यतो भक्तपरिज्ञेङ्गिहातमरणपादपोपगमनमुत्सर्गतः कर्तुं युक्तं, न च तस्य ममास्मिन्नवसरेऽवसरो यतो मे कालक्षेपासहिष्णुरुपसर्गः समुस्थितो रोगवेदनां वा चिराय सोढुं नालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतं, न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह–'स' साधुः वसु-द्रव्यं स चात्र संयमः स विद्यते यस्यासौ वसुमान्, सर्वसमन्वागतप्रज्ञानेनात्मना । कश्चिदर्द्धकटाक्षनिरीक्षणादुपसर्गसम्भवे सत्यपि तदकरणतया आ-समन्ताद्वृत्तो व्यवस्थित आवृत्तो, यदिवा शीतस्पर्शवातादिजनितं दुःखविशेषमसहिष्णुस्तचिकित्साया अकरणतया वसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो-व्यवस्थित इति, स चोपसर्गितो वातादिवेदनां चासहिष्णुः किं कुर्यादित्याह-हुर्हेतौ यस्माच्चिराय वातादिवेदनां सोदमसहिष्णुः, यदिवा यस्मात् सीमन्तिनी उपसर्गयितुमुपस्थिता विषभक्षणोद्वन्धनाडुपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदैव श्रेयो यदैकः कश्चिन्निजैः सपत्नीकोऽपवरके प्रवेशितः आरूढप्रण