________________
जे भिक्खू तिहिं वस्थेहिं परिवुसिए पायचउत्थेहिं तस्स णं नो एवं भवइ-चउत्थं वस्य जाइस्सामि, से अहेसणिज्जाई वत्थाई जाइज्जा अहापरिग्गहियाई वत्याइं धारिजा,
नो धोइजा नो धोयरत्ताई वत्थाई धारिजा, अपलिओवमाणे गामंतरेसु ओमचेलिए, . एयं खु वस्थधारिस्स सामग्गियं (सू० २११) ___ इह प्रतिमाप्रतिपक्षो जिनकल्पिको वा अच्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवीपोपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिकं कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्भं तृतीयस्वौर्णिक, स च सत्यपि शीते नापरमाकान्तीत्येतद्दर्शयति-यो भिक्षुः त्रिभिर्वस्त्रैः 'पर्युषितो' व्यवस्थितः, तत्र शीते पतत्येक क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिक, पुनरपि अतिशीततया क्षौमिककल्पद्वयोपयौर्णिकमिति, सर्वथौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैत्रिभिर्वस्वैरिति दर्शयति-'पात्रचतुर्थैः' पतन्तमाहारं पातीति पात्रं, तद्रहणेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः, तेन विना तद्हणाभावात्, स चायम्-"पत्तं पत्ताबंधो पायढवणं च पायकेसरिआ। पडलाइ रयत्ताणं च गोच्छओ पायणिजोगो ॥१॥" तदेवं सप्तप्रकारं पात्रं कल्पत्रयं रजोहरणं १ मुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः, स्तस्यैवम्भूतस्य भिक्षोः 'णम्' इति वाक्यालङ्कारे 'नैवं भवति' नायमध्यवसायो भवति, तद्यथा-न ममास्मिन्
१ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजनाणं च गोच्छ कः पात्रनिर्योगः ॥१॥
करॐॐन
आ. सू. ४७