________________
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशकः४
॥२७७॥
AAKAKARSASAKASH
काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थ वस्त्रमहं याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव, यदि पुनः कल्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौ जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत-उत्कर्षणापकर्षणरहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र "उद्दिह १ पहे २ अंतर ३ उज्झियधम्मा ४ य” चतस्रो वस्त्रैषणा भवन्ति, तत्र चाधस्तन्योर्द्वयोरग्रह इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याजावाप्तानि च वस्त्राणि यथापरिगृहीतानि धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म कुर्याद् ॥ एतदेव दर्शयितुमाह-नो धावत्प्रासुकोदकेनापि न प्रक्षालयेत्, गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्येति, तथा-न धौतरक्तानि वस्त्राणि धारयेत्, पूर्व धौतानि पश्चाद्रक्तानीति, तथा ग्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन् ब्रजेद् , एतदुक्तं भवति-तथाभूतान्यसावन्तप्रान्तानि विभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमं च तच्चेलं चावमचेलं प्रमाणतः परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं 'खुः' अवधारणे, एतदेव वस्त्रधारिणः सामग्र्यं भवति-एषैव त्रिकल्पात्मिका द्वादशप्रकारोधिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥ शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतद्दर्शयितुमाह
अह पुण एवं जाणिजा-उवाइकंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाई वत्थाई परिदृविज्जा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले (सू० २१२)
॥२७७॥