________________
श्रीआचाराङ्गवृत्तिः (शी०)
| विमो०८ उद्देशका४
॥२७६॥
महामुनिराह-भो गृहपते! न खलु मे कल्पतेऽग्निकायं मनाम् ज्वालयितुं (उज्ज्वालयितुं) प्रकर्षेण ज्वालयितुं प्रज्वालयितुं
स्वतो ज्वलितादौ 'कार्य' शरीरमीपत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुं वा, अन्येषां वा वचनात् नाममैतत्कर्तुं न कंल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुं न कल्पते ममेति । तं चैवं वदन्तं साधुमवगम्य गृहपतिः
कदाचिदेतत्कुर्यादित्याह–स्यात्-कदाचित्स-परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकायमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तच्चोज्वालनातापनादिकं भिक्षुः 'प्रत्युपेक्ष्य' विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा-अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् , कया?-अनासेवनया, यथैतत् ममायुक्तमासेवितुं, भवता तु पुनः साधुभत्तयनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमीतिशब्दावुक्ताौँ । विमोक्षाध्ययनस्य तृतीयोद्देशकः परिसमाप्तः।
उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके गोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोप
सर्गयेयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयं, कारणाभावे तु तन्न कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत है इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
॥२७६ ॥