________________
अगणिकायं उज्जालित्तए वा (पज्जालित्तए वा) कायं आयावित्तए वा पयावित्तए वा अन्नेसिं वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकायं उज्जालित्ता पज्जालित्ता कायं आयाविज्ज वा पयाविज वा, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा
अणासेवणाए तिबेमि (सू० २१०)॥८-३॥ 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किश्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थं सम्यक्त्वक्राणाभावतया शीतस्पर्शपरिवेपमानगात्रं उपसङ्क्रम्य-आसन्नतामेत्य गृहपतिः-ऐश्वर्योष्मानुगतो मृगनाभ्यनुविद्धकश्मीरजबहलरसानुलितदेहो मीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुः प्रौढसीमन्तिनीसन्दोहपरिवृतो वातीभूतशीतस्पर्शानुभव: सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो ब्रूयात्-भो आयुष्मन् ! श्रमण ! कुलीनतामात्मन आविर्भावयन् प्रतिषेधद्वारेण प्रश्नयति-नो भवन्तं ग्रामधाः -विषया उत्-प्राबल्येन बाधन्ते?, एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह-अस्य हि गृहपतेरात्मसंवित्त्याऽङ्गनावलोकनाऽऽविष्कृतभावस्थासत्याशङ्काऽभूद् अतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्बभाषे-आयुष्मन् ! गृहपते! 'नो खलु' नैव ग्रामधरो मामुद्बाधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं, एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्-सुप्रज्वलितमाशुशुक्षणि किमिति न सेवसे,